लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0

चतुर्थः सर्गः


स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं वभौ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः॥१॥

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम्।
पूर्व प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥२॥

पुरूहूतध्वजस्येव तस्योन्ननयनपङ्क्तयः।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः॥३॥

सममेव समाक्रान्तं द्वयं द्विरदगामिना।
तेन सिहासनं पित्र्यमखिलं चारिमण्डलम्॥४॥

छायामण्डललक्ष्येण तमदश्या किल स्वयम्।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम्॥५॥

परिकल्पितसान्निध्या काले काले च वन्दिषु।
स्तुत्यं स्तुतिभिरभिरुपतस्थे सरस्वती॥६॥

मनुप्रभृतिभिमन्यैर्भुक्ता यद्यपि राजभिः।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद् वसुन्धरा॥७॥

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥८॥

मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥९॥

नयविभिन॑वे राज्ञि सदसच्चोपदशितम्।
पूर्व एवाभवत् पक्षस्तस्मिन्नाभवदुत्तरः॥१०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book